Sukta 1.110
विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः । सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥
वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑स॒: सन्तो॑ अमृत॒त्वमा॑नशुः । सौ॒ध॒न्व॒ना ऋ॒भव॒: सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभि॑: ॥
viṣṭvī́ śámī taraṇitvéna vāgháto mártāsaḥ sánto amṛtatvám ānaśuḥ | saudhanvanā́ ṛ́bhavaḥ sū́ra-cakṣasaḥ saṃvatsaré sám apṛcyanta dhītíbhiḥ ||
Having found the right resting-place and by the power of crossing beyond, the singers—though mortal—attained immortality. The Saudhanvana Ribhus, with eyes of the Sun, in the cycle of the year were perfectly joined with their illuminations.
वि॒ष्ट्वी । शमी॑ । त॒र॒णि॒ऽत्वेन॑ । वा॒घतः॑ । मर्ता॑सः । सन्तः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ । सौ॒ध॒न्व॒नाः । ऋ॒भवः॑ । सूर॑ऽचक्षसः । स॒व्ँम्व॒त्स॒रे । सम् । अ॒पृ॒च्य॒न्त॒ । धी॒तिऽभिः॑ ॥विष्ट्वी । शमी । तरणित्वेन । वाघतः । मर्तासः । सन्तः । अमृतत्वम् । आनशुः । सौधन्वनाः । ऋभवः । सूरचक्षसः । सव्ँम्वत्सरे । सम् । अपृच्यन्त । धीतिभिः ॥viṣṭavī | śamī | taraṇi-tvena | vāghataḥ | martāsaḥ | santaḥ | amṛta-tvam | ānaśuḥ | saudhanvanāḥ | ṛbhavaḥ | sūra-cakṣasaḥ | saṃvatsare | sam | apṛcyanta | dhīti-bhiḥ