Sukta 1.110
तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन । त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥
तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वय॑न्त॒ ऐत॑न । त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु॑र्वयम् ॥
tát savitā́ vo ’mṛtatvám ā́suvad ágohyaṃ yác chraváyanta áitana | tyáṃ cic camásam ásurasya bhákṣaṇam ékaṃ sántam akṛṇutā́ catúrvayam ||
That Savitar has breathed into you immortality, a hidden thing, when you went forth making the hearing (of the Truth) manifest. Even that single chalice, the Asura’s vessel of enjoyment, you made into a fourfold form.
तत् । स॒वि॒ता । वः॒ । अ॒मृ॒त॒ऽत्वम् । आ । अ॒सु॒व॒त् । अगो॑ह्यम् । यत् । श्र॒वय॑न्तः । ऐत॑न । त्यम् । चि॒त् । च॒म॒सम् । असु॑रस्य । भक्ष॑णम् । एक॑म् । सन्त॑म् । अ॒कृ॒णु॒त॒ । चतुः॑ऽवयम् ॥तत् । सविता । वः । अमृतत्वम् । आ । असुवत् । अगोह्यम् । यत् । श्रवयन्तः । ऐतन । त्यम् । चित् । चमसम् । असुरस्य । भक्षणम् । एकम् । सन्तम् । अकृणुत । चतुःवयम् ॥tat | savitā | vaḥ | amṛta-tvam | ā | asuvat | agohyam | yat | śravayantaḥ | aitana | tyam | cit | camasam | asurasya | bhakṣaṇam | ekam | santam | akṛṇuta | catuḥ-vayam