Sukta 1.110
आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः । सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥
आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा॑का॒: प्राञ्चो॒ मम॒ के चि॑दा॒पय॑: । सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हम् ॥
ābhogáyaṃ prá yád icchántá aitán apākā́ḥ prā́ñco máma ké cid ā́payaḥ | sáudhanvanāsaś caritásya bhū́manā́gacchata savitúr dāśúṣo gṛhám ||
Seeking the wide enjoyment and plenitude, the unripe (yet aspiring) ones moved forward; some of my waters too flowed outward. Then the Saudhanvanas (the Ribhus), by the vastness of their accomplished movement, came to the house of Savitar, the Giver, who receives the offering.
आ॒ऽभो॒गय॑म् । प्र । यत् । इ॒च्छन्तः॑ । ऐत॑न । अपा॑काः । प्राञ्चः॑ । मम॑ । के । चि॒त् । आ॒पयः॑ । सौध॑न्वनासः । च॒रि॒तस्य॑ । भू॒मना॑ । अग॑च्छत । स॒वि॒तुः । दा॒शुषः॑ । गृ॒हम् ॥आभोगयम् । प्र । यत् । इच्छन्तः । ऐतन । अपाकाः । प्राञ्चः । मम । के । चित् । आपयः । सौधन्वनासः । चरितस्य । भूमना । अगच्छत । सवितुः । दाशुषः । गृहम् ॥ābhogayam | pra | yat | icchantaḥ | aitana | apākāḥ | prāñcaḥ | mama | ke | cit | āpayaḥ | saudhanvanāsaḥ | caritasya | bhūmanā | agacchata | savituḥ | dāśuṣaḥ | gṛham