Sukta 1.110
ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥
त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुन॒: स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्य॒: स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥
tatáṃ me ápaḥ tád u tāyate púnar svādiṣṭhā dhītír ucáthāya śasyate | ayáṃ samudrá ihá viśvádevyaḥ svāhākṛtásya sám u tṛpṇuta ṛ́bhavaḥ ||
The work I have stretched out—this indeed is extended again and again; the sweetest inspired thought is proclaimed for the hymn of utterance. Here is the ocean in this all-divine field; O Ṛbhus, be wholly satisfied with what is offered with the cry of svāhā.
त॒तम् । मे॒ । अपः॑ । तत् । ऊँ॒ इति॑ । ता॒य॒ते॒ । पुन॒रिति॑ । स्वादि॑ष्ठा । धी॒तिः । उ॒चथा॑य । श॒स्य॒ते॒ । अ॒यम् । स॒मु॒द्रः । इ॒ह । वि॒श्वऽदे॑व्यः॒ । स्वाहा॑ऽकृतस्य । सम् । ऊँ॒ इति॑ । तृ॒प्णु॒त॒ । ऋ॒भ॒वः॒ ॥ततम् । मे । अपः । तत् । ऊँ इति । तायते । पुनरिति । स्वादिष्ठा । धीतिः । उचथाय । शस्यते । अयम् । समुद्रः । इह । विश्वदेव्यः । स्वाहाकृतस्य । सम् । ऊँ इति । तृप्णुत । ऋभवः ॥tatam | me | apaḥ | tat | oṃ iti | tāyate | punariti | svādiṣṭhā | dhītiḥ | ucathāya | śasyate | ayam | samudraḥ | iha | v iśva-devyaḥ | svāhākṛtasya | sam | oṃ iti | tṛpṇuta | ṛbhavaḥ