Sukta 1.11
मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः । विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः । वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
māyā́bhir indra māyínaṃ tváṃ śúṣṇam ávā́tiraḥ | vidúṣ ṭe tásya médhirās téṣāṃ śrávāṃsy úttira ||
By thy powers of skill, O Indra, thou didst cast down the magician Śuṣṇa. The wise know that deed of thine; raise up their hearings—lift their inspired fame and receptive capacity.
मा॒याभिः॑ । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् । शुष्ण॑म् । अव॑ । अ॒ति॒रः॒ । वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेषा॑म् । श्रवां॑सि । उत् । ति॒र॒ ॥मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः । विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर ॥māyābhiḥ | indra | māyinam | tvam | śuṣṇam | ava | atiraḥ | viduḥ | te | tasya | medhirāḥ | teṣām | śravāṃsi | ut | tira