Sukta 1.11
इन्द्रमीशानमोजसाभि स्तोमा अनूषत । सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥
इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत । स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥
índram ī́śānam ójasā́bhí stómā anūṣata | sahásraṃ yásya rātáya utá vā sánti bhū́yasīḥ ||
The hymns have sounded forth to Indra, the master by force. A thousand are his gifts—and indeed they are more, for his grace overflows beyond counting.
इन्द्र॑म् । ईशा॑नम् । ओज॑सा । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ । स॒हस्र॑म् । यस्य॑ । रा॒तयः॑ । उ॒त । वा॒ । सन्ति॑ । भूय॑सीः ॥इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमाः । अनूषत । सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः ॥indram | īśānam | ojasā | abhi | stomāḥ | anūṣata | sahasram | yasya | rātayaḥ | uta | vā | santi | bhūyasīḥ