Sukta 1.11
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् । उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥
तवा॒हं शू॑र रा॒तिभि॒: प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् । उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रव॑: ॥
távāhaṃ śūra rātíbhiḥ pratyā́yaṃ síndhum ā́vadan | upā́tiṣṭhanta girvaṇo vidúṣ ṭe tásya kā́ravaḥ ||
By thy gifts, O hero, I have come back towards the flowing river (the stream of being) and proclaimed it; the singers stood near thee, O lover of hymns, for the makers of the work know that power of thine.
तव॑ । अ॒हम् । शू॒र॒ । रा॒तिऽभिः॑ । प्रति॑ । आ॒य॒म् । सिन्धु॑म् । आ॒ऽवद॑न् । उप॑ । अ॒ति॒ष्ठ॒न्त॒ । गि॒र्व॒णः॒ । वि॒दुः । ते॒ । तस्य॑ । का॒रवः॑ ॥तव । अहम् । शूर । रातिभिः । प्रति । आयम् । सिन्धुम् । आवदन् । उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः ॥tava | aham | śūra | rāti-bhiḥ | prati | āyam | sindhum | āvadan | upa | atiṣṭhanta | girvaṇaḥ | viduḥ | te | tasya | kāravaḥ