Sukta 1.11
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् । त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥
tváṃ válasya gó-mato ápāvar adrivo bílam | tvā́ṃ devā́ abíbhyuṣas tuj́yamānāsa āviṣuḥ ||
Thou didst open, O wielder of the stone, the cavern of Vala rich in rays of light; the gods, hard-pressed and fearing, brought thee forth into manifestation.
त्वम् । व॒लस्य॑ । गोऽम॑तः । अप॑ । अ॒वः॒ । अ॒द्रि॒ऽवः॒ । बिल॑म् । त्वाम् । दे॒वाः । अबि॑भ्युषः । तु॒ज्यमा॑नासः । आ॒वि॒षुः॒ ॥त्वम् । वलस्य । गोमतः । अप । अवः । अद्रिवः । बिलम् । त्वाम् । देवाः । अबिभ्युषः । तुज्यमानासः । आविषुः ॥tvam | valasya | go--mataḥ | apa | avaḥ | adri-vaḥ | bilam | tvām | devāḥ | abibhyuṣaḥ | tujyamānāsaḥ | āviṣuḥ