Sukta 1.11
पुरां भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥
पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत । इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
purā́ṃ bhindúr yúvā kavír amitaojā ajāyata | índro víśvasya kármaṇo dhartā́ vajrī́ puruṣṭutáḥ ||
The young seer, breaker of the fortified holds, of immeasurable force, was born—Indra, bearer of the whole work, the wielder of the thunderbolt, praised by many in their aspiration.
पु॒राम् । भि॒न्दुः । युवा॑ । क॒विः । अमि॑तऽओजाः । अ॒जा॒य॒त॒ । इन्द्रः॑ । विश्व॑स्य । कर्म॑णः । ध॒र्ता । व॒ज्री । पु॒रु॒ऽस्तु॒तः ॥पुराम् । भिन्दुः । युवा । कविः । अमितओजाः । अजायत । इन्द्रः । विश्वस्य । कर्मणः । धर्ता । वज्री । पुरुस्तुतः ॥purām | bhinduḥ | yuvā | kaviḥ | amita-ojāḥ | ajāyata | indraḥ | viśvasya | kamarṇaḥ | dhartā | vajrī | puru-stutaḥ