Sukta 1.109
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च । प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥
प्र च॑र्ष॒णिभ्य॑: पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्य॒: प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
prá carṣaṇíbhyaḥ pṛtanāháveṣu prá pṛthivyā́ riricāthe diváś ca | prá síndhubhyaḥ prá gíribhyo mahitvā́ préndrāgnī víśvā bhuvanā́ty anyā́ ||
For the peoples in the calls of battle you two overflow with help; you overflow beyond Earth and beyond Heaven. Beyond the rivers, beyond the mountains, by your greatness, O Indra and Agni, you surpass all other worlds of becoming.
प्र । च॒र्ष॒णिऽभ्यः॑ । पृ॒त॒ना॒ऽहवे॑षु । प्र । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति॑ । दि॒वः । च॒ । प्र । सिन्धु॑ऽभ्यः । प्र । गि॒रिऽभ्यः॑ । म॒हि॒ऽत्वा । प्र । इ॒न्द्रा॒ग्नी॒ इति॑ । विश्वा॑ । भुव॑ना । अति॑ । अ॒न्या ॥प्र । चर्षणिभ्यः । पृतनाहवेषु । प्र । पृथिव्याः । रिरिचाथे इति । दिवः । च । प्र । सिन्धुभ्यः । प्र । गिरिभ्यः । महित्वा । प्र । इन्द्राग्नी इति । विश्वा । भुवना । अति । अन्या ॥pra | carṣaṇi-bhyaḥ | pṛtanāhaveṣu | pra | pṛthivyāḥ | riricātheiti | divaḥ | ca | pra | sindhu-bhyaḥ | pra | giri-bhyaḥ | mahi-tvā | pra | indrāgnī iti | viśvā | bhuvanā ati | anyā