Sukta 1.109
मा च्छेद्म रश्मीँरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः । इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥
मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥
mā́ cchédma raśmī́ṃr íti nā́dhamānāḥ pitṝṇā́ṃ śaktī́r anuyácchamānāḥ | indrāgníbhyāṃ kám vṛ́ṣaṇo madanti tā́ hy ádrī dhiṣáṇāyā upásthe ||
Let us not cut the rays, so crying in our need, as we pursue the powers of the Fathers. For Indra and Agni, by whom do the strong ones grow intoxicated? Those pressing-stones are indeed in the lap of Dhīṣaṇā (the inspired discerning power).
मा । छे॒द्म॒ । र॒श्मीन् । इति॑ । नाध॑मानाः । पि॒तॄ॒णाम् । श॒क्तीः । अ॒नु॒ऽयच्छ॑मानाः । इ॒न्द्रा॒ग्निऽभ्या॑म् । कम् । वृष॑णः । म॒द॒न्ति॒ । ता । हि । अद्री॒ इति॑ । धि॒षणा॑याः । उ॒पऽस्थे॑ ॥मा । छेद्म । रश्मीन् । इति । नाधमानाः । पितॄणाम् । शक्तीः । अनुयच्छमानाः । इन्द्राग्निभ्याम् । कम् । वृषणः । मदन्ति । ता । हि । अद्री इति । धिषणायाः । उपस्थे ॥mā | chedma | raśmīn | iti | nādhamānāḥ | pitṝṇām | śaktīḥ | anu-yacchamānāḥ | indrāgni-bhyām | kam | vṛṣaṇaḥ | madanti | tā | hi | adrī iti | dhiṣaṇāyāḥ | upa-sthe