Sukta 1.109
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥
अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्य॑म् ॥
áśravaṃ hí bhūridā́vattarā vāṃ víjāmātur utá vā ghā syālāt | áthā sómasya práyatī yuvábhyām indrā́gnī stómaṃ janayāmi návyam ||
For I have heard that you two are more lavish givers than a son-in-law or even a brother-in-law. Therefore, with the forward movement of Soma, for you two, O Indra and Agni, I bring forth a new hymn of affirmation.
अश्र॑वम् । हि । भू॒रि॒दाव॑त्ऽतरा । वा॒म् । विऽजा॑मातुः । उ॒त । वा॒ । घ॒ । स्या॒लात् । अथ॑ । सोम॑स्य । प्रऽय॑ती । यु॒वऽभ्या॑म् । इन्द्रा॑ग्नी॒ इति॑ । स्तोम॑म् । ज॒न॒या॒मि॒ । नव्य॑म् ॥अश्रवम् । हि । भूरिदावत्तरा । वाम् । विजामातुः । उत । वा । घ । स्यालात् । अथ । सोमस्य । प्रयती । युवभ्याम् । इन्द्राग्नी इति । स्तोमम् । जनयामि । नव्यम् ॥aśravam | hi | bhūridāvat-tarā | vām | vi-jāmātuḥ | uta | vā | gha | syālāt | atha | somasya | pra-yatī | yuva-bhyām | indrāgnī iti | stomam | janayāmi | navyam