Sukta 1.109
वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान् । नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् । नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यन्ती॑मतक्षम् ॥
ví hy ákhyaṃ mánasā vásya íchann indrā́gnī jñā́sa utá vā sajātā́n | nā́nyā yuvát prámatir asti máhyaṃ sá vāṃ dhíyaṃ vājayántīm atakṣam ||
I have clearly seen with the mind, seeking the more excellent, O Indra and Agni, the peoples and even the kindred-born. No other understanding is for me like you two; therefore I have fashioned for you a thought that brings the plenitude of force.
वि । हि । अख्य॑म् । मन॑सा । वस्यः॑ । इ॒च्छन् । इन्द्रा॑ग्नी॒ इति॑ । ज्ञा॒सः । उ॒त । वा॒ । स॒ऽजा॒तान् । न । अ॒न्या । यु॒वत् । प्रऽम॑तिः । अ॒स्ति॒ । मह्य॑म् । सः । वा॒म् । धिय॑म् । वा॒ज॒ऽयन्ती॑म् । अ॒त॒क्ष॒म् ॥वि । हि । अख्यम् । मनसा । वस्यः । इच्छन् । इन्द्राग्नी इति । ज्ञासः । उत । वा । सजातान् । न । अन्या । युवत् । प्रमतिः । अस्ति । मह्यम् । सः । वाम् । धियम् । वाजयन्तीम् । अतक्षम् ॥vi | hi | akhyam | manasā | vasyaḥ | icchan | indrāgnī iti | jñāsaḥ | uta | vā | sa-jātān | na | anyā | yuvat | pra-matiḥ | asti | mahyam | saḥ | vām | dhiyam | vāja-yantīm | atakṣam