Sukta 1.108
यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
यदि॑न्द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
yád indrāgnī yáduṣu turváśeṣu yád druhyúṣv ánuṣu pū́ruṣu stháḥ | atáḥ pári vṛṣaṇā́vā hí yātam áthā sómasya pibatam sutásya ||
If you are with the Yadus, with the Turvaśas, with the Druhyus, with the Anus, with the Pūrus—then from there come around, O two mighty ones; and drink the pressed Soma.
यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । यदु॑षु । तु॒र्वशे॑षु । यत् । द्रु॒ह्युषु॑ । अनु॑षु । पू॒रुषु॑ । स्थः । अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । यदुषु । तुर्वशेषु । यत् । द्रुह्युषु । अनुषु । पूरुषु । स्थः । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yat | indrāgnī iti | yaduṣu | turvaśeṣu | yat | druhyuṣu | anuṣu | pūruṣu | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | h i | yātam | atha | somasya | pibatam | sutasya