Sukta 1.108
यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
यदि॑न्द्राग्नी॒ मद॑थ॒: स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
yád indrāgnī mádathaḥ své duroṇé yád bráhmaṇi rā́jani vā yajatrā | atáḥ pári vṛṣaṇā́vā hí yātam áthā sómasya pibatam sutásya ||
If, O Indra-and-Agni, you take delight in your own home, or in the Brahman (the inspired utterance), or in the kingly power—O adorable ones: from there, come around to us, O two mighty ones; then drink the pressed Soma.
यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । मद॑थः । स्वे । दु॒रो॒णे । यत् । ब्र॒ह्मणि॑ । राज॑नि । वा॒ । य॒ज॒त्रा॒ । अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । मदथः । स्वे । दुरोणे । यत् । ब्रह्मणि । राजनि । वा । यजत्रा । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yat | indrāgnī iti | madathaḥ | sve | duroṇe | yat | brahmaṇi | rājani | vā | yajatrā | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya