Sukta 1.108
यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
यदि॑न्द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
yád indrāgnī avamá syā́ṃ pṛthivyā́ṃ madhyamá syā́ṃ paramá syā́m utá stháḥ | atáḥ pári vṛṣaṇā́vā hí yātam áthā sómasya pibatam sutásya ||
If you are in the lower earth, in the middle, or in the highest—then from there come around, O two mighty ones; and drink the pressed Soma.
यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒मस्या॑म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या॑म् । प॒र॒मस्या॑म् । उ॒त । स्थः । अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । अवमस्याम् । पृथिव्याम् । मध्यमस्याम् । परमस्याम् । उत । स्थः । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yat | indrāgnī iti | avamasyām | pṛthivyām | madhyamasyām | paramasyām | uta | sthaḥ | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya