Sukta 1.108
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा । तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥
समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा । ती॒व्रैः सोमै॒: परि॑षिक्तेभिर॒र्वागेन्द्रा॑ग्नी सौमन॒साय॑ यातम् ॥
sam-iddhéṣv agníṣv ānajānā́ yata-srúcā bárhir u tistirāṇā́ | tīvráiḥ sómaiḥ pári-siktebhir arvā́g indrāgnī saumanasā́ya yātam ||
When the fires are kindled, come near, recognizing (the call); with well-directed ladles the strewn seat is spread out. With the keen Soma-powers poured all around, come hither, O Indra-and-Agni, for a glad harmony of mind.
सम्ऽइ॑द्धेषु । अ॒ग्निषु॑ । आ॒न॒जा॒ना । य॒तऽस्रु॑चा । ब॒र्हिः । ऊँ॒ इति॑ । ति॒स्ति॒रा॒णा । ती॒व्रैः । सोमैः॑ । परि॑ऽसिक्तेभिः । अ॒र्वाक् । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ॥सम्इद्धेषु । अग्निषु । आनजाना । यतस्रुचा । बर्हिः । ऊँ इति । तिस्तिराणा । तीव्रैः । सोमैः । परिसिक्तेभिः । अर्वाक् । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ॥sam-iddheṣu | agniṣu | ānajānā | yata-srucā | barhiḥ | oṃ iti | tistirāṇā | tīvraiḥ | somaiḥ | pari-siktebhiḥ | arvāk | ā | indrāgnī iti | saumanasāya | yātam