Sukta 1.108
चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः । ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥
च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थ॑: । तावि॑न्द्राग्नी स॒ध्र्य॑ञ्चा नि॒षद्या॒ वृष्ण॒: सोम॑स्य वृष॒णा वृ॑षेथाम् ॥
cakrā́the hí sadhryàṅ nā́ma bhadráṃ sadhrīcīnā́ vṛ́tra-haṇau utá stháḥ | tā́v indrāgnī sadhryàñcā ní-sadya vṛ́ṣṇaḥ sómasya vṛṣaṇā́ ā́ vṛṣethām ||
You two have indeed wrought the auspicious good by a straight and united movement—O two slayers of the Coverer, you stand firm. O Indra-and-Agni, seated together in the right-impulse, grow puissant with the bull-strength of Soma; O two mighty ones, be made strong.
च॒क्राथे॑ । हि । स॒ध्र्य॑क् । नाम॑ । भ॒द्रम् । स॒ध्री॒ची॒ना । वृ॒त्र॒ऽह॒णौ॒ । उ॒त । स्थः॒ । तौ । इ॒न्द्रा॒ग्नी॒ इति॑ । स॒ध्र्य॑ञ्चा । नि॒ऽसद्य॑ । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ॥चक्राथे । हि । सध्र्यक् । नाम । भद्रम् । सध्रीचीना । वृत्रहणौ । उत । स्थः । तौ । इन्द्राग्नी इति । सध्र्यञ्चा । निसद्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् ॥cakrāthe | hi | sadhryak | nāma | bhadram | sadhrīcīnā | vṛtra-haṇau | uta | sthaḥ | tau | indrāgnī iti | sadhryañcā | ni-sadya | vṛṣṇaḥ | somasya | vṛṣaṇā | ā | vṛṣethām