Sukta 1.107
उप नो देवा अवसा गमन्त्वङ्गिरसां सामभिः स्तूयमानाः । इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥
उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः । इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑ति॒: शर्म॑ यंसत् ॥
úpa no devā́ avásā gamantv áṅgirasāṃ sā́mabhiḥ stūyámānāḥ | índra indríyair marúto marúdbhir ādityáir no áditiḥ śárma yaṃsat ||
May the gods come near to us with their help, praised by the chants of the Aṅgirases. May Indra with his powers, the Maruts with the Maruts, and Aditi with the Ādityas bring us a sheltering peace.
उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः । इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥उप । नः । देवाः । अवसा । आ । गमन्तु । अङ्गिरसाम् । सामभिः । स्तूयमानाः । इन्द्रः । इन्द्रियैः । मरुतः । मरुत्भिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥upa | naḥ | devāḥ | avasā | ā | gamantu | aṅgirasām | sāma-bhiḥ | stūyamānāḥ | indraḥ | indri yaiḥ | marutaḥ | marut-bhiḥ | ādityaiḥ | naḥ | aditiḥ | śarma | yaṃsat