Sukta 1.107
यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः । आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्त॑: । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥
yajñó devā́nāṃ práty eti sumnám ādityāso bhávata mṛḷayántaḥ | ā́ vo ’rvācī́ sumatír vavṛtyād aṃhóś cid yā́ varivovíttarā́ asat ||
The offering-movement goes toward the gods with its grace; O Ādityas, become kindly and compassionate. May your right and luminous thought turn toward us, even that which is most able to open wide space away from constriction.
य॒ज्ञः । दे॒वाना॑म् । प्रति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः॑ । भव॑त । मृ॒ळ॒यन्तः॑ । आ । वः॒ । अ॒र्वाची॑ । सु॒ऽम॒तिः । व॒वृ॒त्या॒त् । अं॒होः । चि॒त् । या । व॒रि॒वो॒वित्ऽत॑रा । अस॑त् ॥यज्ञः । देवानाम् । प्रति । एति । सुम्नम् । आदित्यासः । भवत । मृळयन्तः । आ । वः । अर्वाची । सुमतिः । ववृत्यात् । अंहोः । चित् । या । वरिवोवित्तरा । असत् ॥yajñaḥ | devānām | prati | eti | sumnam | ādityāsaḥ | bhavata | mṛḷayantaḥ | ā | vaḥ | avārcī | su-matiḥ | vavṛtyāt | aṃhoḥ | cit | yā | varivovit-tarā | asat