Sukta 1.105
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता । त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता । त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
amī yé saptá raśmáyas tátrā me nā́bhir ā́tatā | tritás tád veda ā́ptyaḥ sá jā́mitvāya rebhati vittáṃ me asyá rodasī ||
Those seven rays—there my navel is stretched out and fastened; Trita Āptya knows that, and he cries out for kinship—O Heaven and Earth, know the treasure of this my seeking.
अ॒मी इति॑ । ये । स॒प्त । र॒श्मयः॑ । तत्र॑ । मे॒ । नाभिः॑ । आऽत॑ता । त्रि॒तः । तत् । वे॒द॒ । आ॒प्त्यः । सः । जा॒मि॒ऽत्वाय॑ । रे॒भ॒ति॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अमी इति । ये । सप्त । रश्मयः । तत्र । मे । नाभिः । आतता । त्रितः । तत् । वेद । आप्त्यः । सः । जामित्वाय । रेभति । वित्तम् । मे । अस्य । रोदसी इति ॥amī iti | ye | sapta | raśmayaḥ | tatra | me | nābhiḥ | ātatā | tritaḥ | tat | veda | āptyaḥ | saḥ | jāmi-tvāya | rebhati | vittam | me | asya | rodasī iti