Sukta 1.105
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः । मूषो न शिश्ना व्यदन्ति माध्यः स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥
सं मा॑ तपन्त्य॒भित॑: स॒पत्नी॑रिव॒ पर्श॑वः । मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्य॑: स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
sáṃ mā tapanty abhítaḥ sapatnī́r iva párśavaḥ | mū́ṣo ná śiśnā́ vy adanti mā́dhyaḥ stotā́raṃ te śatakrato vittáṃ me asyá rodasī ||
Pressures burn me on every side like rival wives; like a mouse gnawing the cords, want eats into me—O Shatakratu, your singer—O Heaven and Earth, know the treasure of this my seeking.
सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ स॒पत्नीः॑ऽइव । पर्श॑वः । मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒ऽक्र॒तो॒ इति॑ शतऽक्रतो । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥सम् । मा । तपन्ति । अभितः सपत्नीःइव । पर्शवः । मूषः । न । शिश्ना । वि । अदन्ति । मा । आध्यः । स्तोतारम् । ते । शतक्रतो इति शतक्रतो । वित्तम् । मे । अस्य । रोदसी इति ॥sam | mā | tapanti | abhitaḥ sapatnīḥ-iva | parśavaḥ | mūṣaḥ | na | śiśnā | vi | adanti | mā | ādhyaḥ | stotāram | te | śata-krato itiśata-krato | vittam | me | asya | rodasī