Sukta 1.105
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः । देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥
अ॒मी ये पञ्चो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः । दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
amī yé pañcó-kṣaṇo mádhye tasthúr mahó diváḥ | devatrā́ nú pravā́cyaṃ sadhrīcīnā́ ní vāvṛtur vittáṃ me asyá rodasī ||
Those five strong ones stand in the midst of the great heaven; turned together godward they have enclosed what must be uttered—O Heaven and Earth, know the treasure of this my seeking.
अ॒मी इति॑ । ये । पञ्च॑ । उ॒क्षणः॑ । मध्ये॑ । त॒स्थुः । म॒हः । दि॒वः । दे॒व॒ऽत्रा । नु । प्र॒ऽवाच्य॑म् । स॒ध्री॒ची॒नाः । नि । व॒वृ॒तुः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अमी इति । ये । पञ्च । उक्षणः । मध्ये । तस्थुः । महः । दिवः । देवत्रा । नु । प्रवाच्यम् । सध्रीचीनाः । नि । ववृतुः । वित्तम् । मे । अस्य । रोदसी इति ॥amī iti | ye | pañca | ukṣaṇaḥ | madhye | tasthuḥ | mahaḥ | divaḥ | deva-trā | nu | pra-vācyam | sadhrīcīnāḥ | ni | vavṛtuḥ | vittam | me | asya | rodasī iti