Sukta 1.105
कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् । कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् । कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
kád va ṛtásya dhárṇasi kád váruṇasya cákṣaṇam | kád aryamṇó mahás páthā́ti krāmema dū́ḍhyo vittáṃ me asyá rodasī ||
When shall we reach the foundation of the Truth-Order, when the wide vision of Varuṇa, when by the great path of Aryaman shall we cross beyond the hard-pressed straits?—O Heaven and Earth, know the treasure of this my seeking.
कत् । वः॒ । ऋ॒तस्य॑ । ध॒र्ण॒सि । कत् । वरु॑णस्य । चक्ष॑णम् । कत् । अ॒र्य॒म्णः । म॒हः । प॒था । अति॑ । क्रा॒मे॒म॒ । दुः॒ऽढ्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥कत् । वः । ऋतस्य । धर्णसि । कत् । वरुणस्य । चक्षणम् । कत् । अर्यम्णः । महः । पथा । अति । क्रामेम । दुःढ्यः । वित्तम् । मे । अस्य । रोदसी इति ॥kat | vaḥ | ṛtasya | dharṇasi | kat | varuṇasya | cakṣaṇam | kat | aryamṇaḥ | mahaḥ | pathā | ati | krāmema | duḥ-ḍhyaḥ | vittam | me | asya | rodasī iti