Sukta 1.105
अमी ये देवाः स्थन त्रिष्वा रोचने दिवः । कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥
अ॒मी ये दे॑वा॒: स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः । कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
amī yé devā́ḥ sthána triṣv ā rṓcane diváḥ | kád va ṛtáṃ kád anṛ́taṃ kvà pratnā́ va ā́hutir vittáṃ me asyá rodasī ||
You gods who take your stations in the three luminous realms of heaven—what with you is the Truth and what is the Untruth? Where is your ancient offering now?—O Heaven and Earth, know the treasure of this my seeking.
अ॒मी इति॑ । ये । दे॒वः॒ । स्थन॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः । कत् । वः॒ । ऋ॒तम् । कत् । अनृ॑तम् । क्व॑ । प्र॒त्ना । वः॒ । आऽहु॑तिः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अमी इति । ये । देवः । स्थन । त्रिषु । आ । रोचने । दिवः । कत् । वः । ऋतम् । कत् । अनृतम् । क्व । प्रत्ना । वः । आहुतिः । वित्तम् । मे । अस्य । रोदसी इति ॥amī iti | ye | devaḥ | sthana | triṣu | ā | rocane | divaḥ | kat | vaḥ | ṛtam | kat | anṛtam | kva | pratnā | vaḥ | āhutiḥ | vittam | me | asya | rodasī iti