Sukta 1.105
यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति । क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥
य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति । क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
yajñáṃ pṛcchāmy avamáṃ sá tád dūtó ví vocati | kvà ṛtáṃ pū́rvyaṃ gatáṃ kás tád bibharti nū́tano vittáṃ me asyá rodasī ||
I question the sacrifice in its lowest seat, and it speaks out as a messenger: ‘Where has the ancient Truth-Order gone? Who now bears it anew?’—O Heaven and Earth, know the treasure of this my seeking.
य॒ज्ञम् । पृ॒च्छा॒मि॒ । अ॒व॒मम् । सः । तत् । दू॒तः । वि । वो॒च॒ति॒ । क्व॑ । ऋ॒तम् । पू॒र्व्यम् । ग॒तम् । कः । तत् । बि॒भ॒र्ति॒ । नूत॑नः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥यज्ञम् । पृच्छामि । अवमम् । सः । तत् । दूतः । वि । वोचति । क्व । ऋतम् । पूर्व्यम् । गतम् । कः । तत् । बिभर्ति । नूतनः । वित्तम् । मे । अस्य । रोदसी इति ॥yajñam | pṛcchāmi | avamam | saḥ | tat | dūtaḥ | vi | vocati | kva | ṛtam | pūrvyam | gatam | kaḥ | tat | bibharti | nūtanaḥ | vittam | me | asya | rodasī iti