Sukta 1.105
अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् । तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥
अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति॑म् । तु॒ञ्जाते॒ वृष्ण्यं॒ पय॑: परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
ártham íd vā u arthína ā jāyā yuvaté pátim | tuñjā́te vṛ́ṣṇyaṃ páyaḥ paridā́ya rásaṃ duhē vittáṃ me asyá rodasī ||
As the seeker of the true gain, the soul (as bride) comes to the youthful Lord; pressing out the virile milk of strength, she pours it all around and milks its essence—O Heaven and Earth, know this inner treasure that is mine.
अर्थ॑म् । इत् । वै । ऊँ॒ इति॑ । अ॒र्थिनः॑ । आ । जा॒या । यु॒व॒ते॒ । पति॑म् । तु॒ञ्जाते॒ इति॑ । वृष्ण्य॑म् । पयः॑ । प॒रि॒ऽदाय॑ । रस॑म् । दु॒हे॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अर्थम् । इत् । वै । ऊँ इति । अर्थिनः । आ । जाया । युवते । पतिम् । तुञ्जाते इति । वृष्ण्यम् । पयः । परिदाय । रसम् । दुहे । वित्तम् । मे । अस्य । रोदसी इति ॥artham | it | vai | oṃ iti | arthinaḥ | ā | jāyā | yuvate | patim | tuñjāteiti | vṛṣṇyam | payaḥ | pari-dāya | rasam | duhe | vittam | me | asya | rodasī iti