Sukta 1.105
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥
च॒न्द्रमा॑ अ॒प्स्व१॒॑न्तरा सु॑प॒र्णो धा॑वते दि॒वि । न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
candramā́ apsv àntárā suparṇó dhāvate diví | ná vo hiraṇya-nemayaḥ padáṃ vindanti vidyúto vittáṃ me asyá rodasī ||
The Moon within the waters, the fair-winged, runs in heaven. The lightnings with golden rims do not find your track; yet this is known to me of these two worlds: there is a hidden course of the luminous, beyond the grasp of outward sight.
च॒न्द्रमाः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒ऽप॒र्णः । धा॒व॒ते॒ । दि॒वि । न । वः॒ । हि॒र॒ण्य॒ऽने॒म॒यः॒ । प॒दम् । वि॒न्द॒न्ति॒ । वि॒ऽद्यु॒तः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥चन्द्रमाः । अप्सु । अन्तः । आ । सुपर्णः । धावते । दिवि । न । वः । हिरण्यनेमयः । पदम् । विन्दन्ति । विद्युतः । वित्तम् । मे । अस्य । रोदसी इति ॥candramāḥ | ap-su | antaḥ | ā | su-parṇaḥ | dhāvate | divi | na | vaḥ | hiraṇya-nemayaḥ | padam | vindanti | vi-dyutaḥ | vittam | me | asya | rodasī iti