Sukta 1.105
सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः । अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥
स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
sattó hótā manuṣvádā devā́ṁ ácchā vidúṣṭaraḥ | agnír havyā́ suṣūdati devó devéṣu médhiro vittáṁ me asyá rodasī ||
Seated as the Priest, human-wise yet more knowing, he comes straight to the gods. Agni perfectly prepares and sets the offerings; divine among the gods, the wise one—let Heaven-and-Earth affirm in me the realised finding.
स॒त्तः । होता॑ । म॒नु॒ष्वत् । आ । दे॒वान् । अच्छ॑ । वि॒दुःऽत॑रः । अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥सत्तः । होता । मनुष्वत् । आ । देवान् । अच्छ । विदुःतरः । अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः । वित्तम् । मे । अस्य । रोदसी इति ॥sattaḥ | hotā | manuṣvat | ā | devān | accha | viduḥ-taraḥ | agniḥ | havyā | susūdati | devaḥ | deveṣu | medhiraḥ | vittam | me | asya | rodasī iti