Sukta 1.105
अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् । स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥
अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्य॑म् । स न॑: स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
agne táva tyád ukthyàṁ devéṣv asty ā́pyam | sá naḥ sattó manuṣvádā devā́n yakṣi vidúṣṭaro vittáṁ me asyá rodasī ||
Agni, this inspired word of thine is a thing to be attained among the gods. Seated within us, human-wise, sacrifice to the gods; thou who knowest more surely, establish in me the finding—let Heaven-and-Earth bear witness.
अग्ने॑ । तव॑ । त्यत् । उ॒क्थ्य॑म् । दे॒वेषु॑ । अ॒स्ति॒ । आप्य॑म् । सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुःऽत॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अग्ने । तव । त्यत् । उक्थ्यम् । देवेषु । अस्ति । आप्यम् । सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि । विदुःतरः । वित्तम् । मे । अस्य । रोदसी इति ॥agne | tava | tyat | ukthyam | deveṣu | asti | āpyam | saḥ | naḥ | sattaḥ | manuṣvat | ā | devān | yakṣi | viduḥ-taraḥ | vittam | me | asya | rodasī iti