Sukta 1.104
स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे । मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥
स त्वं न॑ इन्द्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से । मान्त॑रां॒ भुज॒मा री॑रिषो न॒: श्रद्धि॑तं ते मह॒त इ॑न्द्रि॒याय॑ ॥
sá tváṃ na indra sū́rye só apsv anāgā́s-tvé ā́ bhaja jīvaśaṃsé | mā́ntarāṃ bhújam ā́ rīriṣo naḥ śráddhitaṃ te mahatá indriyā́ya ||
Be that for us, O Indra, in the sun; be that for us in the waters—share with us your blameless protection for the hope of living. Do not wound us in the midway grasp; we have placed our trust in your great Indrian power.
सः । त्वम् । नः॒ । इ॒न्द्र॒ । सूर्ये॑ । सः । अ॒प्ऽसु । अ॒ना॒गाः॒ऽत्वे । आ । भ॒ज॒ । जी॒व॒ऽशं॒से । मा । अन्त॑राम् । भुज॑म् । आ । रि॒रि॒षः॒ । नः॒ । श्रद्धि॑तम् । ते॒ । म॒ह॒ते । इ॒न्द्रि॒याय॑ ॥सः । त्वम् । नः । इन्द्र । सूर्ये । सः । अप्सु । अनागाःत्वे । आ । भज । जीवशंसे । मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । श्रद्धितम् । ते । महते । इन्द्रियाय ॥saḥ | tvam | naḥ | indra | sūrye | saḥ | ap-su | anāgāḥ-tve | ā | bhaja | jīva-śaṃse | mā | antarām | bhujam | ā | ririṣaḥ | naḥ | śraddhitam | te | mahate | indriyāya