Sukta 1.104
अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय । मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥
अधा॑ मन्ये॒ श्रत्ते॑ अस्मा अधायि॒ वृषा॑ चोदस्व मह॒ते धना॑य । मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दा॑: ॥
ádhā manye śrát te asmai adhāyi vṛ́ṣā codasva mahaté dhánāya | mā́ no ákṛte puruhūta yónāv índra kṣúdhyadbhyo váya āsutíṃ dāḥ ||
Then I perceive that faith has been placed for him in you; O Bull, impel us toward the great treasure. Do not leave us, O much-invoked, in an unmade womb; O Indra, give to the hungry powers the life-force and the pressing—nourishment of the offering.
अध॑ । म॒न्ये॒ । श्रत् । ते॒ । अ॒स्मै॒ । अ॒धा॒यि॒ । वृषा॑ । चो॒द॒स्व॒ । म॒ह॒ते । धना॑य । मा । नः॒ । अकृ॑ते । पु॒रु॒ऽहू॒त॒ । योनौ॑ । इन्द्र॑ । क्षुध्य॑त्ऽभ्यः । वयः॑ । आ॒ऽसु॒तिम् । दाः॒ ॥अध । मन्ये । श्रत् । ते । अस्मै । अधायि । वृषा । चोदस्व । महते । धनाय । मा । नः । अकृते । पुरुहूत । योनौ । इन्द्र । क्षुध्यत्भ्यः । वयः । आसुतिम् । दाः ॥adha | manye | śrat | te | asmai | adhāyi | vṛṣā | codasva | mahate | dhanāya | mā | naḥ | akṛte | puru-hūta | yonau | indra | kṣudhyat-bhyaḥ | vayaḥ | āsutim | dāḥ