Sukta 1.104
अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् । क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥
अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् । क्षी॒रेण॑ स्नात॒: कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥
áva tmánā bharate kétavedā áva tmánā bharate phénam udán | kṣīréṇa snātáḥ kúyavasya yóṣe haté te syātāṃ pravaṇé śíphāyāḥ ||
Down by his own nature moves Ketavedā; down by his own nature moves the foam upon the waters. Bathed in milk, O wife of Kuyava, may those two be struck down and fall on the slope of Śiphā—let the false brilliance perish in its own descent.
अव॑ । त्मना॑ । भ॒र॒ते॒ । केत॑ऽवेदाः । अव॑ । त्मना॑ । भ॒र॒ते॒ । फेन॑म् । उ॒दन् । क्षी॒रेण॑ । स्ना॒तः॒ । कुय॑वस्य । योषे॒ इति॑ । ह॒ते इति॑ । ते इति॑ । स्या॒ता॒म् । प्र॒व॒णे । शिफा॑याः ॥अव । त्मना । भरते । केतवेदाः । अव । त्मना । भरते । फेनम् । उदन् । क्षीरेण । स्नातः । कुयवस्य । योषे इति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः ॥ava | tmanā | bharate | keta-vedāḥ | ava | tmanā | bharate | phenam | udan | kṣīreṇa | snātaḥ | kuyavasya | yoṣeiti | hate iti | te iti | syātām | pravaṇe | śiphāyāḥ