Sukta 1.104
ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्त्सद्यो अध्वनो जगम्यात् । देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्त्सुविताय वर्णम् ॥
ओ त्ये नर॒ इन्द्र॑मू॒तये॑ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व॑नो जगम्यात् । दे॒वासो॑ म॒न्युं दास॑स्य श्चम्न॒न्ते न॒ आ व॑क्षन्त्सुवि॒ताय॒ वर्ण॑म् ॥
ó tye nárā índram ūtáye gúr nū́ cít tā́n sadyó ádhvano jagamyāt | devā́so manyúṃ dā́sasya ścamnán te ná ā́ vakṣan suvitā́ya várṇam ||
These heroic powers have cried to Indra for help; even now may he come to them straightway from the path. The gods, crushing the wrath of the Dāsa, shall bring us the luminous color for a happy going—an open way of right movement.
ओ इति॑ । त्ये । नरः॑ । इन्द्र॑म् । ऊ॒तये॑ । गुः॒ । नु । चि॒त् । तान् । स॒द्यः । अध्व॑नः । ज॒ग॒म्या॒त् । दे॒वासः॑ । म॒न्युम् । दास॑स्य । श्च॒म्न॒न् । ते । नः॒ । आ । व॒क्ष॒न् । सु॒ऽवि॒ताय । वर्ण॑म् ॥ओ इति । त्ये । नरः । इन्द्रम् । ऊतये । गुः । नु । चित् । तान् । सद्यः । अध्वनः । जगम्यात् । देवासः । मन्युम् । दासस्य । श्चम्नन् । ते । नः । आ । वक्षन् । सुविताय । वर्णम् ॥o iti | tye | naraḥ | indram | ūtaye | guḥ | nu | cit | tān | sadyaḥ | adhvanaḥ | jagamyāt | devāsaḥ | manyum | dāsasya | ścamnan | te | naḥ | ā | vakṣan | su-vitāya | varṇam