Sukta 1.103
तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् । अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥
तदि॑न्द्र॒ प्रेव॑ वी॒र्यं॑ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो॑ध॒योऽहि॑म् । अनु॑ त्वा॒ पत्नी॑र्हृषि॒तं वय॑श्च॒ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ॥
tád indra préva vīryàṃ cakartha yát sasántaṃ vájreṇā́bodhayo ’hím | ánu tvā pátnīr hṛṣitáṃ váyaś ca víśve devā́so amadan ánu tvā ||
This indeed, O Indra, was thy heroic deed, when with the thunder-force thou didst awaken the sleeping Serpent. After thee the consorts and the glad life-powers followed; all the gods rejoiced following thee.
तत् । इ॒न्द्र॒ । प्र । अव॑ । वी॒र्य॑म् । च॒क॒र्थ॒ । यत् । स॒सन्त॒म् । वज्रे॑ण । अबो॑धयः । अहि॑म् । अनु॑ । त्वा॒ । पत्नीः॑ । हृ॒षि॒तम् । वयः॑ । च॒ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ॥तत् । इन्द्र । प्र । अव । वीर्यम् । चकर्थ । यत् । ससन्तम् । वज्रेण । अबोधयः । अहिम् । अनु । त्वा । पत्नीः । हृषितम् । वयः । च । विश्वे । देवासः । अमदन् । अनु । त्वा ॥tat | indra | pra | ava | vīryam | cakartha | yat | sasantam | vajreṇa | abodhayaḥ | ah im | anu | tvā | patnīḥ | hṛṣitam | vayaḥ | ca | viśve | devāsaḥ | amadan | anu | tvā