Sukta 1.103
भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् । य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥
भूरि॑कर्मणे वृष॒भाय॒ वृष्णे॑ स॒त्यशु॑ष्माय सुनवाम॒ सोम॑म् । य आ॒दृत्या॑ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेद॑: ॥
bhū́rikarmaṇe vṛṣabhā́ya vṛ́ṣṇe satyáśuṣmāya sunavā́ma sómam | yá ādṛ́tyā paripanthī́va śūró ’yájvano vibhájan néti védāḥ ||
For the doer of many works, for the Bull, for the strong one of true ardour, let us press the Soma. He who, taking heed, like a hero guarding the paths, distinguishes and knows the non-sacrificers (the unoffering forces).
भूरि॑ऽकर्मणे । वृ॒ष॒भाय॑ । वृश्णे॑ । स॒त्यऽशु॑ष्माय । सु॒न॒वा॒म॒ । सोम॑म् । यः । आ॒ऽदृत्य॑ । प॒रि॒ऽप॒न्थीऽइ॑व । शूरः॑ । अय॑ज्वनः । वि॒ऽभज॑न् । एति॑ । वेदः॑ ॥भूरिकर्मणे । वृषभाय । वृश्णे । सत्यशुष्माय । सुनवाम । सोमम् । यः । आदृत्य । परिपन्थीइव । शूरः । अयज्वनः । विभजन् । एति । वेदः ॥bhūri-karmaṇe | vṛṣabhāya | vṛśṇe | satya-śuṣmāya | sunavāma | somam | yaḥ | ādṛtya | pari-panthī-iva | śūraḥ | ayajvanaḥ | vi-bhajan | eti | vedaḥ