Sukta 1.103
शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि॑न्द्र य॒दाव॑धी॒र्वि पुर॒: शम्ब॑रस्य । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
śúṣṇaṃ pípruṃ kúyavaṃ vṛtrám indra yadā́vadhīr ví púraḥ śámbarasya | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī utá dyáuḥ ||
When thou didst slay Śuṣṇa, Pipru, Kuyava, and Vṛtra, O Indra, and didst shatter the strongholds of Śambara—may that power of victory enlarge us: Mitra and Varuṇa, Aditi, the River of the flow, Earth and Heaven.
शुष्ण॑म् । पिप्रु॑म् । कुय॑वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव॑धीः । वि । पुरः॑ । शम्ब॑रस्य । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥शुष्णम् । पिप्रुम् । कुयवम् । वृत्रम् । इन्द्र । यदा । अवधीः । वि । पुरः । शम्बरस्य । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥śuṣṇam | piprum | kuyavam | vṛtram | indra | yadā | avadhīḥ | vi | puraḥ | śambarasya | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ