Sukta 1.103
तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय । स गा अविन्दत्सो अविन्ददश्वान्त्स ओषधीः सो अपः स वनानि ॥
तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या॑य । स गा अ॑विन्द॒त्सो अ॑विन्द॒दश्वा॒न्त्स ओष॑धी॒: सो अ॒पः स वना॑नि ॥
tád asyédáṃ paśyatā bhū́ri puṣṭáṃ śrád índrasya dhattana vīryā́ya | sá gā́ avindat só avindad áśvān sá óṣadhīḥ sá apáḥ sá vánāni ||
See this of him—how abundant is the increase: set your faith in Indra for his hero-power. He found the Cows, he found the Horses; he found the Plants, he found the Waters, he found the Forests.
तत् । अ॒स्य॒ । इ॒दम् । प॒श्य॒त॒ । भूरि॑ । पु॒ष्टम् । श्रत् । इन्द्र॑स्य । ध॒त्त॒न॒ । वी॒र्या॑य । सः । गाः । अ॒वि॒न्द॒त् । सः । अ॒वि॒न्द॒त् । अश्वा॑न् । सः । ओष॑धीः । सः । अ॒पः । सः । वना॑नि ॥तत् । अस्य । इदम् । पश्यत । भूरि । पुष्टम् । श्रत् । इन्द्रस्य । धत्तन । वीर्याय । सः । गाः । अविन्दत् । सः । अविन्दत् । अश्वान् । सः । ओषधीः । सः । अपः । सः । वनानि ॥tat | asya | idam | paśyata | bhūri | puṣṭam | śrat | indrasya | dhattana | vīryāya | saḥ | gāḥ | avindat | saḥ | avindat | aśvān | saḥ | oṣadhīḥ | saḥ | apaḥ | saḥ | vanāni