Sukta 1.103
तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् । उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥
तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं॑ म॒घवा॒ नाम॒ बिभ्र॑त् । उ॒प॒प्र॒यन्द॑स्यु॒हत्या॑य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ॥
tád ūcúṣe mā́nuṣemā́ yugā́ni kīrtényam maghávā nā́ma bíbhrat | upa-práyan dasyu-hátyāya vajrī́ yád dha sūnúḥ śrávase nā́ma dadhé ||
This the human generations have spoken through the ages, bearing the fame-worthy name of Maghavan. The thunder-bearer went forth to the slaying of the Dasyu, when indeed the Son set for himself a name for the increase of hearing and renown.
तत् । ऊ॒चुषे॑ । मानु॑षा । इ॒मा । यु॒गानि॑ । की॒र्तेन्य॑म् । म॒घऽवा । नाम॑ । बिभ्र॑त् । उ॒प॒ऽप्र॒यन् । द॒स्यु॒ऽहत्या॑य । व॒ज्री । यत् । ह॒ । सू॒नुः । श्रव॑से । नाम॑ । द॒धे ॥तत् । ऊचुषे । मानुषा । इमा । युगानि । कीर्तेन्यम् । मघवा । नाम । बिभ्रत् । उपप्रयन् । दस्युहत्याय । वज्री । यत् । ह । सूनुः । श्रवसे । नाम । दधे ॥tat | ūcuṣe | mānuṣā | imā | yugāni | kīrtenyam | magha-vā | nāma | bibhrat | upa-prayan | dasyu-hatyāya | vajrī | yat | ha | sūnuḥ | śravase | nāma | dadhe