Sukta 1.103
स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः । विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥
स जा॒तूभ॑र्मा श्र॒द्दधा॑न॒ ओज॒: पुरो॑ विभि॒न्दन्न॑चर॒द्वि दासी॑: । वि॒द्वान्व॑ज्रि॒न्दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो॑ वर्धया द्यु॒म्नमि॑न्द्र ॥
sá jātū́bharmā śráddadhāna ójaḥ púro vibhindánn acárad ví dā́sīḥ | vidvā́n vajrín dásyave hetím asyā́ryaṃ sáho vardhayā dyumnám indra ||
He, bearer of the inborn might, founding faith in his force, broke open the strongholds and moved forth, setting free the enslaved powers. Knowing, O wielder of the thunder, he cast down the Dasyu’s weapon; increase for the Arya the strength and the luminous triumph, O Indra.
सः । जा॒तूऽभ॑र्मा । श्र॒त्ऽदधा॑नः । ओजः॑ । पुरः॒ । वि॒ऽभि॒न्दन् । अ॒च॒र॒त् । वि । दासीः॑ । वि॒द्वान् । व॒ज्रि॒न् । दस्य॑वे । हे॒तिम् । अ॒स्य॒ । आर्यम् । सहः॑ । व॒र्ध॒य॒ । द्यु॒म्नम् । इ॒न्द्र॒ ॥सः । जातूभर्मा । श्रत्दधानः । ओजः । पुरः । विभिन्दन् । अचरत् । वि । दासीः । विद्वान् । वज्रिन् । दस्यवे । हेतिम् । अस्य । आर्यम् । सहः । वर्धय । द्युम्नम् । इन्द्र ॥saḥ | jātū-bharmā | śrat-dadhānaḥ | ojaḥ | puraḥ | vi-bhindan | acarat | vi | dāsīḥ | vi dvān | vajrin | dasyave | hetim | asya | āryam | sahaḥ | vardhaya | dyumnam | indra