Sukta 1.103
स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज । अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे॑ण ह॒त्वा निर॒पः स॑सर्ज । अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं॑सं म॒घवा॒ शची॑भिः ॥
sá dhā́rayat pṛthivī́m papráthat ca vájreṇa hatvā́ nír apáḥ sasarja | áhann áhīm abhinad rauhiṇáṃ vy àhan vyàṃsaṃ maghávā śácībhiḥ ||
He held firm the Earth and he spread it out; with the thunder-force he smote and released the waters. He slew the Serpent, he cleft the ‘Rauhiṇa’, he struck down the obstructer Vyāṃsa—Maghavan by his conscious powers.
सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । वज्रे॑ण । ह॒त्वा । निः । अ॒पः । स॒स॒र्ज॒ । अह॑न् । अहि॑म् । अभि॑नत् । रौ॒हि॒णम् । वि । अह॑न् । विऽअं॑सम् । म॒घऽवा॑ । शची॑भिः ॥सः । धारयत् । पृथिवीम् । पप्रथत् । च । वज्रेण । हत्वा । निः । अपः । ससर्ज । अहन् । अहिम् । अभिनत् । रौहिणम् । वि । अहन् । विअंसम् । मघवा । शचीभिः ॥saḥ | dhārayat | pṛthivīm | paprathat | ca | vajreṇa | hatvā | niḥ | apaḥ | sasarja | ahan | ahim | abhinat | rauhiṇam | vi | ahan | vi-aṃsam | magha-vā | śacībhiḥ