Sukta 1.103
तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् । क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥
तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयन्त क॒वय॑: पु॒रेदम् । क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥
tát ta indríyaṃ paramáṃ parācáir ádhārayanta kaváyaḥ purédám | kṣamédám anyád divy ànyád asya sám īm pṛcyate samanéva ketúḥ ||
That supreme Indric power of thine the seers upheld from of old, from the far-reaching heights. One is this here on earth, another is that in heaven; yet both are joined together as a single sign in the same meeting-place.
तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् । क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒म् इति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥तत् । ते । इन्द्रियम् । परमम् । पराचैः । अधारयन्त । कवयः । पुरा । इदम् । क्षमा । इदम् । अन्यत् । दिवि । अन्यत् । अस्य । सम् । ईम् इति । पृच्यते । समनाइव । केतुः ॥tat | te | indriyam | paramam | parācaiḥ | adhārayanta | kavayaḥ | purā | idam | kṣamā | idam | anyat | divi | anyat | asya | sam | īm iti | pṛcyate | samanāiva | ketuḥ