Sukta 1.102
त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः । सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः ॥
त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः । सेमं न॑: का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्र॑: कृणोतु प्रस॒वे रथं॑ पु॒रः ॥
tvā́ṃ devéṣu prathamáṃ havāmahe tváṃ babhū́tha pṛ́tanāsu sāsahíḥ | sémáṃ naḥ kā́rum upa-mányum ud-bhídam índraḥ kṛṇotu prasavé ráthaṃ puráḥ ||
Thee first among the gods we call; thou hast become the overcomer in the battles. Let Indra make for us this singer a breaker-up of anger, a cleaver of obstruction, and in the forward impulsion set our chariot in front.
त्वाम् । दे॒वेषु॑ । प्र॒थ॒मम् । ह॒वा॒म॒हे॒ । त्वम् । ब॒भू॒थ॒ । पृत॑नासु । स॒स॒हिः । सः । इ॒मम् । नः॒ । का॒रुम् । उ॒प॒ऽम॒न्युम् । उ॒त्ऽभिद॑म् । इन्द्रः॑ । कृ॒णो॒तु॒ । प्र॒ऽस॒वे । रथ॑म् । पु॒रः ॥त्वाम् । देवेषु । प्रथमम् । हवामहे । त्वम् । बभूथ । पृतनासु । ससहिः । सः । इमम् । नः । कारुम् । उपमन्युम् । उत्भिदम् । इन्द्रः । कृणोतु । प्रसवे । रथम् । पुरः ॥tvām | deveṣu | prathamam | havāmahe | tvam | babhūtha | pṛtanāsu | sasahiḥ | saḥ | imam | naḥ | kārum | upa-manyum | ut-bhidam | indraḥ | kṛṇotu | pra-save | ratham | puraḥ