Sukta 1.102
त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना । अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि ॥
त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी॑र्नृपते॒ त्रीणि॑ रोच॒ना । अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि॑न्द्र ज॒नुषा॑ स॒नाद॑सि ॥
triviṣṭi-dhā́tu pratímānam ójasas tisró bhū́mīr nṛ-pate trī́ṇi rocanā́ | atī́daṃ víśvaṃ bhúvanaṃ vavakṣithā aśátrur indra jánuṣā sanā́d asi ||
O lord of men, a threefold-seated holder, a standard by thy energy; thou supportest the three earths and the three luminous realms. Thou hast surpassed all this world of becoming; foe-less, Indra, by birth and from of old thou art.
त्रि॒वि॒ष्टि॒ऽधातु॑ । प्र॒ति॒ऽमानम् । ओज॑सः । ति॒स्रः । भूमीः॑ । नृ॒ऽप॒ते॒ । त्रीणि॑ । रो॒च॒ना । अति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । व॒व॒क्षि॒थ॒ । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ॥त्रिविष्टिधातु । प्रतिमानम् । ओजसः । तिस्रः । भूमीः । नृपते । त्रीणि । रोचना । अति । इदम् । विश्वम् । भुवनम् । ववक्षिथ । अशत्रुः । इन्द्र । जनुषा । सनात् । असि ॥triviṣṭi-dhātu | prati-mānam | ojasaḥ | tisraḥ | bhūmīḥ | nṛ-pate | trīṇi | rocanā | at i | idam | viśvam | bhuvanam | vavakṣitha | aśatruḥ | indra | januṣā | sanāt | asi