Sukta 1.102
त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च । त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥
त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च । त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इन्द्र॒ हव॑नेषु चोदय ॥
tváṃ jigétha ná dhánā rurodhithā́rbheṣv ā́jā maghavan mahátsu ca | tvām ugrám ávase sáṃ śiśīmasy áthā na indra hávaneṣu codaya ||
Thou hast conquered and thou dost not obstruct our plenitudes of substance; in the small battles and in the great as well, O Maghavan. Thee, the strong Power, for our guarding we whet and make ready; then, O Indra, impel us forward in our calls.
त्वम् । जि॒गे॒थ॒ । न । धना॑ । रु॒रो॒धि॒थ॒ । अर्भे॑षु । आ॒जा । म॒घ॒ऽव॒न् । म॒हत्ऽसु॑ । च॒ । त्वाम् । उ॒ग्रम् । अव॑से । सम् । शि॒शी॒म॒सि॒ । अथ॑ । नः॒ । इ॒न्द्र॒ । हव॑नेषु । चो॒द॒य॒ ॥त्वम् । जिगेथ । न । धना । रुरोधिथ । अर्भेषु । आजा । मघवन् । महत्सु । च । त्वाम् । उग्रम् । अवसे । सम् । शिशीमसि । अथ । नः । इन्द्र । हवनेषु । चोदय ॥tvam | jigetha | na | dhanā | rurodhitha | arbheṣu | ājā | magha-van | mahat-su | ca | tvām | ugram | avase | sam | śiśīmasi | atha | naḥ | indra | havaneṣu | codaya