Sukta 1.102
उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः । अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरंदर ॥
उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रव॑: । अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥
útte śatā́n maghavan núc ca bhū́yasa útsahasrā́d ririce kṛ́ṣṭiṣu śrávaḥ | amā́traṃ tvā dhiṣáṇā titviṣe mahy ádhā vṛtrā́ṇi jighnase purandara ||
Higher than hundreds, higher still than more, higher than thousands thy fame overflows among the peoples. Measureless, the inspired intelligence kindles thee to greatness; then thou smitest the Vṛtras, O breaker of cities.
उत् । ते॒ । श॒तात् । म॒घ॒ऽव॒न् । उत् । च॒ भूय॑सः । उत् । स॒हस्रा॑त् । रि॒रि॒चे॒ । कृ॒ष्टिषु॑ । श्रवः॑ । अ॒मा॒त्रम् । त्वा॒ । धि॒षणा॑ । ति॒त्वि॒षे॒ । म॒ही । अध॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । पु॒र॒म्ऽद॒र॒ ॥उत् । ते । शतात् । मघवन् । उत् । च भूयसः । उत् । सहस्रात् । रिरिचे । कृष्टिषु । श्रवः । अमात्रम् । त्वा । धिषणा । तित्विषे । मही । अध । वृत्राणि । जिघ्नसे । पुरम्दर ॥ut | te | śatāt | magha-van | ut | cabhūyasaḥ | ut | sahasrāt | ririce | kṛṣṭiṣu | śravaḥ | amātram | tvā | dhiṣaṇā | titviṣe | mahī | adha | vṛtrāṇi | jighnase | puram-dara