Sukta 1.102
गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजंकरः । अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः ॥
गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मञ्छ॒तमू॑तिः खजंक॒रः । अ॒क॒ल्प इन्द्र॑: प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सव॑: ॥
gojítā bāhū́ amítakratuḥ simáḥ kárman-karman śatámūtiḥ khajaṃkaráḥ | akálpa índraḥ pratímānam ójasā́ athā́ jánā ví hvayante sisā́savaḥ ||
His arms win the luminous herds; his will is measureless. In act after act he is the many-formed helper, the breaker of hard knots. Indra is without equal, a standard by his force; therefore men call out in diverse ways, desiring to win.
गो॒ऽजिता॑ । बा॒हू इति॑ । अमि॑तऽक्रतुः । सि॒मः । कर्म॑न्ऽकर्मन् । श॒तऽमू॑र्तिः । ख॒ज॒म्ऽक॒रः । अ॒क॒ल्पः । इन्द्रः॑ । प्र॒ति॒ऽमान॑म् । ओज॑सा । अथ॑ । जनाः॑ । वि । ह्व॒य॒न्ते॒ । सि॒सा॒सवः॑ ॥गोजिता । बाहू इति । अमितक्रतुः । सिमः । कर्मन्कर्मन् । शतमूर्तिः । खजम्करः । अकल्पः । इन्द्रः । प्रतिमानम् । ओजसा । अथ । जनाः । वि । ह्वयन्ते । सिसासवः ॥go--jitā | bāhū iti | amita-kratuḥ | simaḥ | karman-karman | śata-mūrtiḥ | khajam-karaḥ | akalpaḥ | indraḥ | prati-mānam | ojasā | atha | janāḥ | vi | hvayante | sisāsavaḥ