Sukta 1.102
नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः । अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥
नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यव॑: । अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥
nānā́ hí tvā havamānā́ jánā imé dhánānāṃ dhartar ávasā vipányavaḥ | asmā́kaṃ smā rátham ā́ tíṣṭha sātáye jaitráṃ hí indra níbhṛtaṃ mánas táva ||
Many indeed are these peoples calling thee, O holder of plenitudes, with their seeking speech and thy help. Yet mount our chariot for the winning—the victorious car; for, Indra, thy will is steadfastly held.
नाना॑ । हि । त्वा॒ । हव॑मानाः । जनाः॑ । इ॒मे । धना॑नाम् । ध॒र्तः॒ । अव॑सा । वि॒प॒न्यवः॑ । अ॒स्माक॑म् । स्म॒ । रथ॑म् । आ । ति॒ष्ठ॒ । सा॒तये॑ । जैत्र॑म् । हि । इ॒न्द्र॒ । निऽभृ॑तम् । मनः॑ । तव॑ ॥नाना । हि । त्वा । हवमानाः । जनाः । इमे । धनानाम् । धर्तः । अवसा । विपन्यवः । अस्माकम् । स्म । रथम् । आ । तिष्ठ । सातये । जैत्रम् । हि । इन्द्र । निभृतम् । मनः । तव ॥nānā | hi | tvā | havamānāḥ | janāḥ | ime | dhanānām | dhartaḥ | avasā | vipanyavaḥ | asmākam | sma | ratham | ā | tiṣṭha | sātaye | jaitram | hi | indra | ni-bhṛtam | manaḥ | tava