Sukta 1.102
वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे । अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥
व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे । अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥
vayáṃ jayema tváyā yujā́ vṛ́tam asmā́kam áṃśam úd avā́ bháre-bhare | asmábhyam indra várivaḥ su-gáṃ kṛdhi prá śátrūṇāṃ maghavan vṛ́ṣṇyā rujá ||
May we conquer with thee as yoke-fellow the enclosing obstruction; lift up our rightful share in every bearing of the load. For us, Indra, make a wide and happy path; O bounteous one, shatter the adversaries by thy lordly might.
व॒यम् । ज॒ये॒म॒ । त्वया॑ । यु॒जा । वृत॑म् । अ॒स्माक॑म् । अंश॑म् । उत् । अ॒व॒ । भरे॑ऽभरे । अ॒स्मभ्य॑म् । इ॒न्द्र॒ । वरि॑वः । सु॒ऽगम् । कृ॒धि॒ । प्र । शत्रू॑णाम् । म॒घ॒ऽव॒न् । वृष्ण्या॑ । रु॒ज॒ ॥वयम् । जयेम । त्वया । युजा । वृतम् । अस्माकम् । अंशम् । उत् । अव । भरेभरे । अस्मभ्यम् । इन्द्र । वरिवः । सुगम् । कृधि । प्र । शत्रूणाम् । मघवन् । वृष्ण्या । रुज ॥vayam | jayema | tvayā | yujā | vṛtam | asmākam | aṃśam | ut | ava | bhare--bhare | asmabhyam | indra | varivaḥ | su-gam | kṛdhi | pra | śatrūṇām | magha-van | vṛṣṇyā | ruja