Sukta 1.102
तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे । आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥
तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे । आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघव॒ञ्छर्म॑ यच्छ नः ॥
táṃ smā ráthaṃ maghavan prā́va sātáye jaitráṃ yáṃ te anumádāma saṅgamé | ā́jā na indra mánasā puruṣṭuta tvā́yat-bhyo maghavan śárma yaccha naḥ ||
That chariot, O bounteous one, lead forth for our winning—the victorious car in which we rejoice beside thee in the clash. Come to us, Indra, by the will; O much-praised, grant shelter to those who are turned to thee.
तम् । स्म॒ । रथ॑म् । म॒घ॒ऽव॒न् । प्र । अव॑ । सा॒तये॑ । जैत्र॑म् । यम् । ते॒ । अ॒नु॒ऽमदा॑म । स॒म्ऽग॒मे । आ॒जा । नः॒ । इ॒न्द्र॒ । मन॑सा । पु॒रु॒ऽस्तु॒त॒ । त्वा॒यत्ऽभ्यः॑ । म॒घ॒ऽव॒न् । शर्म॑ । य॒च्छ॒ । नः॒ ॥तम् । स्म । रथम् । मघवन् । प्र । अव । सातये । जैत्रम् । यम् । ते । अनुमदाम । सम्गमे । आजा । नः । इन्द्र । मनसा । पुरुस्तुत । त्वायत्भ्यः । मघवन् । शर्म । यच्छ । नः ॥tam | sma | ratham | magha-van | pra | ava | sātaye | jaitram | yam | te | anu-madāma | sam-game | ājā | naḥ | indra | manasā | puru-stuta | tvāyat-bhyaḥ | magha-van | śamar | yaccha | naḥ